पूर्वम्: ६।३।१०३
अनन्तरम्: ६।३।१०५
 
सूत्रम्
ईषदर्थे॥ ६।३।१०४
काशिका-वृत्तिः
ईषदर्थे च ६।३।१०५

ईषदर्थे वर्तमानस्य कोः का इत्ययम् आदेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्।
न्यासः
ईषदर्थे च। , ६।३।१०४

ईषन्मधुरं "कामधुरम्()" इति। "कुगतिप्रादयः" २।२।१८ इति समासः। "कुशब्दः पापार्थः" इत्येतत्तु प्रायिकमुपाधिवचनमित्युक्तम्()। तत्र प्रायिकत्वे चैतदेव कादेशवचनं ज्ञापकम्()। "काम्लम्()" इति। ननु चात्र "कोः कत्तत्पुषषे" (६।३।१०१) इति कदादेशेन भवितव्यम्()? इत्यत आह--"अजादावपि" इत्यादि॥
बाल-मनोरमा
ईषदर्थे १०१६, ६।३।१०४

ईषदर्थे। ईषदर्थे विद्यमानस्य कोः "का" इत्यादेशः स्यादित्यर्थः। काजलमिति। ईषत्--जलमिति विग्रहे "कुगतीति समासः। नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम्। कुत्सित अम्लः काम्ल इत्यत्र "कोः कत्तत्पुरुषेऽची"ति कदादेशमाशङ्ख्याह--अजादावपीति।